पृष्ठम्:अद्भुतसागरः.djvu/१५६

पुटमेतत् सुपुष्टितम्
१३८
अद्भुतसागरे

 कार्त्तिके तु यदा मासि कुरुतेऽस्तमनोदयौ ।
 तदाऽह्नां नवतिं पूर्णां देवो भुवि न वर्षति ॥

काश्यपः ।

 कृष्णपक्षे पञ्चदशीचतुर्दश्यष्टमीषु च ।
 शुक्रो यदोदयं कुर्यात् तदा वृष्टिं विमुञ्चति ॥

वराहसंहितायाम् ।

चतुर्दशे पञ्चदशेऽथ वाऽष्टमे तमिस्रपक्षस्य तिथौ भृगोः सुतः ।
यदा व्रजेद्दर्शनमस्तमेव वा तदा मही वारिमयी च लक्ष्यते ॥

 अत्रानुक्तविशेषशान्तिषु भार्गवोत्पातेषु भार्गवपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो गार्गीये ।
 षण्मसिकस्त्वौशनसः -इति ।

इति द्वाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे भार्गवाद्भुतावर्त्तः ।


अथ शनैश्चराद्भुतावर्त्तः।

तत्र शुभसूचकशनैश्चरलक्षणमाह पराशरः ।

 पाण्डुः स्निग्धोऽमलः श्यामो विशुद्धार्चिः शनैश्चरः ।
 मार्गस्थश्चापि सव्यश्च नक्षत्राद्धित इष्यते ।

मार्गस्थञ्चापि सव्यश्चेति । उत्तरमार्गस्थ इत्यर्थः ।

येषामयं स्वामी तेषामेवंविधो विशेषेण हितो विपरीतो विशेषेण विपरीतः ।
शनैश्चरस्वामिकान्याह यवनेश्वरः ।

आनर्त्तवाहाहन[] वृद्धनीचपुंस्त्वोनसत्त्वालसदीक्षितानाम् ।


  1. मृतदाहनं च इति छ. ।