सर्वे पीडां समृच्छन्ति जना यान्ति यमालयम् ॥
अथ प्रत्येकनक्षत्रचारफलं वराहसंहितायाम्
तुरगतुरगोपचारककविवैद्यामात्यहाऽर्कजोऽश्विगतः ।
याम्ये नर्त्तकवादकोगेयज्ञक्षुद्रनैकृतिकान् ॥
पराशरस्तु ।
अश्विन्यामश्वारोहाश्वपालवैद्यामात्यकविनायकान् । भरणीषु वादकगायननर्त्तकक्षुद्रनैकृतिकान् पीडयति ।
वराहसंहितायाम् ।
बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजोविनश्चमूपाश्च ।
रोहिण्यां कोशलमद्रकाशिपाञ्चालशाकटिकाः ॥
पराशरस्तु ।
आग्नेये प्रविचरन्नर्कजोऽग्निस्थलशूरसेना हिताग्निलोहकारधात्वाकराङ्गनाशौण्डिकाग्न्युपजिविन उपतापयति । प्राजापत्ये मद्रकपाञ्चालकाशिकोशलाङ्गशाकटिकाश्चालोड्यन्ते[१]।
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
“रोहिणीं पीडयन्नेव स्थितो राजन् शनैश्वरः”[२] ।
यद्यपि 'चारेण पीडां कुरुतेऽर्कपुत्रः' - इत्येन चारमात्रेण शनैश्चरः पीडयतीत्युक्तं
तथाऽपि कुरुपाण्डवसैन्यवधस्य गुरुत्वादत्र रोहिणीपीडनमवगन्तव्यम् ।
तथा च वराहसंहितायाम् ।
रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथ वा शिखी ।
किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम् ॥
गर्गः ।
रोहिणीशकटं भौमो भिनत्यर्कसुतोऽथ वा ।
केतुर्वा जगतो ब्रूयात् प्रलयं समुपस्थितम् ॥
वराहसंहितायाम् ।
मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाश्च ।