पृष्ठम्:अद्भुतसागरः.djvu/१६१

पुटमेतत् सुपुष्टितम्
१४३
शनैश्चराद्भुतावर्त्तः ।

 रौद्रे पारतदूरं[१]मठतैलिकरजकचौराश्च ॥
पराशरस्तु ।
 सौम्ये यजमानयाजकार्यजनमध्यदेशवत्सजनपदाः । रौद्रे पारतरमठतैलिकरजकदस्यवः ।
वराहसंहितायाम् ।

 आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः ।
 पुष्ये घाण्टिकघौषिकयवनवणिक्कितवकुसुमानि ॥

पराशरस्तु ।
 आदित्ये सुराष्ट्रसिन्धुसौवीरपञ्चनदप्रत्यन्ता विधवाश्च । पुष्येषु पुष्यमाणवकघाण्टिकघौषिकपोतयात्रिपवनवणिग्दूतान् ।
वराहसंहितायाम् ।

 सार्पे जलरुहसर्पाः पित्र्ये वाल्हीकचीनगान्धराः ।
 मौलिक[२] पारतवैश्याः कोष्ठागाराणि वणिजश्च ॥

पराशरश्च ।
 आश्लेषासु च सर्पाः सलिलजाः । मघासु मौलिकचीनगान्धारवैश्यपारतदरदशिविकोष्ठागाराणि ।
वराहसंहितायाम् ।

 भाग्ये रसविक्रयिकपण्यस्त्रीकन्यकामहाराष्ट्राः ।
 आर्यम्णे नृपगुडलवणभिक्षुकाम्बूनि तक्षशिला ॥

पराशरास्तु ।
 भाग्ये रसविक्रयिकपण्यस्त्रीकन्यकामहाराष्ट्राः । आर्यम्णे नृपनृपतिपत्नीसुततिललवणगुडभि-क्षकपूजककूर्चधरतक्षशिलादरदवासिनः ।
वराहसहितायाम् ।

 हस्ते नापितचाक्तिकचौरभिषक्सुचिकद्विपग्राहाः ।


  1. रौद्रस्थे पारततर इति अ. ।
  2. शुलिक इति अ. ।