उदितो वाऽप्यभिवृष्टः सुभिक्षसौख्यावहः केतुः ॥
तथा च समाससंहितायाम्
अचिरस्थितोऽभिवृष्टस्त्वृजुस्तनुः स्निग्धमूर्त्तिरुदगुदितः ।
ह्रस्वः स्मितः प्रसन्नः केतुर्लोकस्य भावाय ॥
येषामयं स्वामी तेषामेवम्भूतो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः ।
अशुभसूचककेतुलक्षणं वराहसंहितायाम् ।
उक्तविपरीतिरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
इन्द्रायुधानुकारी विशेषतो द्वित्रिचूडो वा ॥
वटकणिकायाम् ।
न शुभो विपरीतोऽतो विशेषतः शक्रचापसंकाशः ।
द्वित्रिचतुश्चूडो वा दक्षिणदिक्स्थश्च मृत्युकरः ॥
हरिवंशे बाणयुद्धनिमित्तम् ।
“दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् "[१] ।
केतुस्वामिकान्याह काश्यपः ।
प्राकाराभ्युच्छ्रिताः शृङ्गगिरिस्था विजिगीषवः ।
प्रत्यन्तवासनिरताः परच्छिद्रविशारदाः ॥
मूर्खा विज्ञानहीनाश्च निर्मर्यादा नरास्तथा ।
परदाररता नीचाः केतोरेतान् विनिर्दिशेत् ॥
वराहसंहितायां तु ।
गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः ।
प्रत्यन्तनिग्रहेच्छा व्यवसायपराक्रमोपेताः ॥
परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिकाः।
मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥
वटकणिकायां तु
सिखिनो गिरिसंस्थितावगाणा मरुभूः पह्लवचोलसुह्महूणाः ।
- ↑ ११६ अ, ६४ श्लो. ।