पृष्ठम्:अद्भुतसागरः.djvu/१७८

पुटमेतत् सुपुष्टितम्
१६०
अद्भुतसागरे

 विंशद्ग्रहशतं घोरं विश्वरूपेति नामतः ॥

विंशद्ग्रहशतं विंशत्यधिकं शतमित्यर्थः ।
तथा च वराहसंहितायाम् ।

 विंशत्याऽधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् ।
 तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥

वरुणपुत्रानाहाथर्वमुनिः ।

 वंशगुल्मप्रतीकाशाश्चन्द्ररश्मिसरश्मयः ।
 शुकतुण्डनिभैश्चापि रश्मिभिः किञ्चिदावृताः ॥
 उदयेहः सृजन्तीव स्निग्धत्वात् सौम्यदर्शनात् ।
 एते नाम्ना स्मृताः कङ्गा द्वात्रिंशद्वारुणा ग्रहाः ॥

वराहसंहितायां तु ।

 कङ्गा नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः |
 शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥

गर्गस्तु ।

 वंशगुल्मप्रतीकाशा वृहन्तश्चारुरश्मयः ।
 कीर[१]तुण्डनिभैर्युक्ता रश्मिभिस्तेऽतिदारुणाः ॥
 उदयेऽहः सृजन्तीव[२] स्निग्धत्वात् सौम्यदर्शनाः ।
 एते कष्टफलाः कङ्का द्वात्रिंशद्वारुणा ग्रहाः ॥

वायुपुत्रानाहाथर्वमुनिः ।

 अरुणास्तु सुता वायोः परुषाः सप्तसप्ततिः ।
 वातेरिता भ्रमन्तीव रूक्षा विस्तीर्णरश्मयः ॥

वराहसंहितायां तु ।

 श्यामारुणा वितारा धूसररूपा विकीर्णदीधितयः ।
 अरुणाख्या वायुसुताः पापफलाः सप्तसप्ततिः परुषाः ॥


  1. काक - इति अ. ।
  2. मयूखानुत्सृजन्तीव इति अ. ।