वृद्धगर्गस्तु ।
मृत्युनिःश्वासजा ये ते पूर्वमेवानुकीर्त्तिताः ।
तेषां दृश्यास्त्रयः प्रोक्ता विज्ञेया नभसि स्थिताः ॥
तेषां त्रयाणामेकैकं त्रिंशद्वर्षशते गते ।
केतूनामुदयो व्योम्नि दृश्यते तु गभस्तिमान् ॥
प्रथमस्तु वसाकेतुरस्थिकेतुरनन्तरम् ।
शस्त्रकेतुरिति ख्यातस्तृतीयो ज्ञानकोविदः ॥
अथैषामुदये पुर्वनिमित्तान्यह वृद्धगर्गः ।
उत्थानसमये चैषां निमित्तान्युपलक्षयेत् ।
अप्रमत्तः सदा विद्वानुद्युक्तः शास्त्रकोविदः ॥
देवतायतने देवों चलन्तीं रुदतीमपि ।
धूमायन्तीं श्वसन्तीं वा दृष्ट्वा केतुं निवेदयेत् ॥
व्यभ्रे नभसि वर्षाणि विद्युतोऽशनिमारुताः ।
भौमान्तरिक्षाश्चोत्पाता दृश्यन्ते चातिभैरवाः ॥
स्मशाननिलयानां च स्मशाने चोपजीविनाम् ।
सत्त्वानामाभिपादानां श्रूयते सुमहान् स्वनः ॥
उत्पातैरीदृशैर्घोरैर्दृश्यद्भिरनिशं ततः ।
याम्यानां क्षुद्धयं विन्द्यात् केतूनां केतुशास्त्रवित् ॥
वसाकेत्वादीनां लक्षणं फलानि वराहसंहितायाम् ।
उदगायतो महान् स्निग्धमूर्त्तिरपरोदयी वसाकेतुः ।
सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥
तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रथितः ।
स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥