यज्ञोत्सवसमृद्धा च तदा भवति मेदिनी ॥
एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ।
लोकोद्योतकरः श्रीमान् शङ्खकेतुरिहोदितः ॥
पराशरेण शङ्खङ्केतु: पृथङ्नोक्त: । ऊर्म्यादिष्वेवास्यान्तर्भावः कृत इति ।
अथातः परं चलकेतोरुदयः । तस्योदपूर्वनिमित्तान्याह वृद्धगर्गः ।
पैतामहानां सप्तानां चलकेतुः प्रदृश्यते ।
प्रपातैः पञ्चदशभिः शतैः संवत्सरैर्दिवि ॥
उत्थाने चास्य लिङ्गानि यथावदुपधारयेत् ।
अनिष्टमशुभं तुच्छं नदन्ति मृगपक्षिणः ॥
अन्योन्यमभिसंरब्धाः पुरुषाः पुरुषैः सहः ।
विग्रहं दारुणं यान्ति राजानश्च परस्परम् ॥
उभे सन्ध्ये च विकृते रूक्षवर्णे सुलोहिते ।
न भ्राजति तदा व्योम पांशुध्वस्तं तमोवृतम् ॥
अथ चलकेतुलक्षणं वराहसंहितायाम् ।
अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
गच्छेद्यथायथोदक् तथातथा दैर्घ्यमायति ॥
सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥
हन्यात् प्रयागकूलाद्यावदवन्तीं त्रिपुष्करारण्यम्[१] ।
उदगपि च देविकामिति भूयिष्ठं मध्यदेशाख्यम् ॥
अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
दश मासान् फलपाकः कैश्चिदिहाष्टादश प्रोक्तः ॥
- ↑ च पुष्करारण्यम् इति अ.।