पृष्ठम्:अद्भुतसागरः.djvu/२०३

पुटमेतत् सुपुष्टितम्
१८७
केत्वद्भुतावर्त्तः ।

निवृत्तोर्ध्वप्रदक्षिणजटाकारशिखः । स यावतो मासान् दृश्यते तावन्ति वर्षाणि दुर्भिक्ष[]मावहति । मध्यदेश आर्यगणानामादानमौदीच्यैश्च भूयिष्ठां सत्रिभागशेषां प्रजामवशेषयति-इति

वृद्धगर्गस्तु ।

 स कृत्वैव जटां रूक्षां शिखामूर्ध्वां प्रदर्शयेत् ।
 वैष्णवं पदमाक्रम्य श्यावरूसमयतिः ॥
 त्रिभागं नभसो गत्वा अपसव्यं निवर्त्तते ।
 याम्याग्रशिखया भौमो नक्षत्राण्युपधूपयेत्
 दर्शनादेव लोकानां भयं जनयते भृशम् ।
 अस्य दर्शनतो म्लेच्छाः शका ये च महाशकाः ॥
 तगणा बहवः सर्वे परस्पर जिगीषवः ।
 क्रोधाविष्टाः समेष्यन्ति शस्तः परस्परम् ॥
 ततः प्रथमसंग्रामे कबन्धैश्चित्रिता क्षितिः ।
 वैमुख्यं क्षत्रियाः सर्वे गमिष्यन्ति कृतान्ततः ॥
 तेषां रत्नानि पत्नीश्च क्षत्रियाणां महाशकाः ।
 प्रतिगृह्य प्रयास्यन्ति मध्यदेशं विलुप्य च ॥
 विप्राद्याँश्चतुरो वर्णान् कुरुक्षेत्रं तथैव च ।
 अन्योन्यं ते तु संतुष्टाः प्रयास्यन्ति यमालयम् ॥
 ये चाप्यन्तर्हिताः शेषाः केतवः षोडशैव तु ।
 ते च भूमिगता व्याला वनपर्वतवासिनः ॥
 सागराणां च सर्वेषां दुष्टसत्त्वाँस्तथैव च ।
 मानुषान् भक्षयिष्यन्ति दारुणं रूपमास्थिताः ॥


  1. सुभिक्ष - इति अ ।