नैमिषनृपं किरातं श्रवणादिषु षट्स्वनुक्रमतः ॥
मृदुनक्षत्राभ्युदिताशुभकेतुफलमाहाथर्वमुनिः ।
मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च ।
दारुणेषु च ऋक्षेषु विद्यात् तत्सदृशं फलम् ॥
यथादेशं यथावर्णं यथावर्गपरिग्रहम् ।
सर्व एवोदिता हन्युः सर्व एवाशुभा ग्रहाः ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“धूसेनयोरशिवं घोरं पुष्यमाक्रम्य ताटकम्।
सेनयोरशिवं घोरं ज्येष्ठामाक्रम्य तिष्ठति ”[१] ॥
हरिवंशे कंसवधनिमित्तम् ।
"केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्"[२] ॥
वराहसंहितायाम् ।
उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा ।
अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥
गार्गाये ।
अथ यत्रोदितः केतुः सोमं समुपधूपयेत् ।
तदा सर्वं शोषमेति भौमं स्थावरजङ्गमम्
समुद्राश्च क्षयं यान्ति सर्वा नद्यः सरांसि च ।
हैमवत्यो[३] विशुष्यन्ति नद्योऽन्यासां तु का कथा ॥
नखकेशवहो वायुः कपालशकलाकुलः ।