पृष्ठम्:अद्भुतसागरः.djvu/२१७

पुटमेतत् सुपुष्टितम्
२०२
अद्भुतसागरे

 नित्यशुश्रूषमाणाय ब्रह्मचर्यपराय च ॥
 निर्गुणायापि पुत्राय न दद्यात् केतुसम्भवम् ।

इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे केत्वद्भुतावर्त्तः ।

अथ ध्रुवाद्यद्भुतावर्त्तः ।

तत्रागस्त्योदयास्तमयमाह ब्रह्मगुप्ताचार्यः ।

 “राशिचतुष्केण यदा स्वर्क्षभयुतेन भवति तुल्योऽर्कः ।
 उदयोऽगस्त्यस्य मुनेश्चक्रार्धाच्छोधितेऽस्तमयः" [१]

अथ शुभसूचकागस्त्यलक्षणं वराहसंहितायाम् ।

शातकुम्भसदृशं स्फटिकाभं तर्पयन्निव महीं किरणाद्यैः ।
दृश्यते यदि ततः प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥

अथाशुभसूचकागस्त्यलक्षणमाह पराशरः ।

संवृतः पुररोधाय स्पन्दनो भयाय-इति ।

संवृतः स्वल्पः ।
वराहसंहितायाम् ।

 रोगान् करोति कपिलः परुषस्त्ववृष्टिं
  धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
 माञ्जिष्ठरागसदृशः क्षुधमाहवं न
  कुर्यादणुश्च पुररोधमगस्त्यनामा ॥

अथ वर्णफलम् । तत्र गर्गः ।

 शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
 दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः ॥


  1. ब्रह्मस्पुटसिद्धान्ते नोपलभ्यतेऽयं श्लोकः ।