पृष्ठम्:अद्भुतसागरः.djvu/२१८

पुटमेतत् सुपुष्टितम्
२०३
धुवाद्यद्भुतावर्त्तः ।

पराशरः ।

 सुस्निग्धवर्णः श्वेतश्च शातकुम्भसमप्रभः ।
 मुनिः क्षेमसुभिक्षाय प्रजानामभयाय च ॥

तथा ।

 नीलोऽतिवर्षाय। अग्निपरुपरूक्षाभो रोगाय । कपिलो वृष्टिनिग्रहाय । धूमाभो गवामभावाय । माञ्जिष्ठः क्षुच्छस्त्रभयाय ।

गर्गस्तु ।

 वैश्वानरार्चिःप्रतिमो मांसशोणितकर्दमैः ।
 रणैर्भयैश्च विविधैः किंचिच्छेषायते प्रजाः ॥
 अथ सोत्पातागस्त्यफलं वराहसंहितायाम् ।
 उत्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ।

पराशरश्च ।

 हन्यादुल्का यदाऽगस्त्यं केतुर्वाऽप्युपधूपयेत् ।
 दुर्भिक्षं जनमारश्च तदा जगति जायते ॥

अथ सप्तर्षीणामद्भुनानि ।

 भुजवसुदश १०८२मितशाके श्रीमद्वल्लालसेनराज्यादौ ।
 वर्षैकषष्टि-६१भोगो मुनिभिर्विहितो विशाखायाम् ॥

वराहसंहितायाम् ।

 एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
 प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः[]

 पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
 तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥
 पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः ।
 तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥


  1. प्रागुदयतोऽप्यविवराट्टजून् नयति तत्र संयुक्ताः । इति अ. ।