पृष्ठम्:अद्भुतसागरः.djvu/२२५

पुटमेतत् सुपुष्टितम्
२१०
अद्भुतसागरे

  संयुक्तो भवति तु यः पराजयेन ॥
 श्यामो वाऽप्यपगतरश्मिमण्डलो वा
  रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
 आक्रान्तो विनिपतितः कृतापसव्यो
  विज्ञेयो हत इति स ग्रहो ग्रहेण ॥

पराशरस्तु ।

 दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।

वराहसंहितायां तु ।

 दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
 अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
 उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
 विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥

प्रभाकरस्तु ।

 भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।

पुलिशाचार्यश्च ।

 सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।

अथ रव्यादीनां पराजयफलं भार्गवोये ।

कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥

पराशरस्तु ।

 सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते ।