यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताश्च समुच्छ्रितान्तकाः ॥
गर्ग: ।
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ
विद्याद्धितं सुखं लोके शान्तशस्त्रमनामयम् ॥
पराशरः ।
कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ॥
वराहः ।
यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोऽब्दमेकम् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
“संवत्सरस्थायिनौ च ग्रहौ प्रज्वालितावुभौ ।
विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ”[१] ॥
संवत्सरनाम्नि वर्षे स्थायिनौ संरत्सरस्थायिनौ ।
विष्णुधर्मोत्तरे ।
चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ।
भार्गवश्च घनिष्ठासु तदा पौरभयं भवेत् ॥
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥
पराशरश्च ।
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥
- ↑ ३ अ. २६ श्लो. ।