पृष्ठम्:अद्भुतसागरः.djvu/२५०

पुटमेतत् सुपुष्टितम्
२३५
रव्यादिवर्षाद्भुतावर्त्तः ।

 यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
 शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥

यवनेश्वरः ।

अब्दाश्रयं लक्षणमीरितं यद्ग्रहस्वभावप्रभवं जनानाम् ।
तदेव तन्मासदिनर्त्तुयुक्तं तदीश्वरस्थानविकल्पितं च ॥

अथ वत्सराधिपगणनं विष्णुधर्मोत्तरे ।

 सप्तच्छिन्ने तु यच्छेषं कलियातसमागणे[१]
 आदित्यादिः स बोद्धव्यो ग्रहः संवत्सराधिपः ॥

अथ कलेर्गतसंवत्सराः ।

 नन्दमैत्रा [२]ग्नि-३१७९ संयुक्तः शककालः कलेर्गतः ।

ब्रह्मसिद्धान्तकृता तु

 “सावनवर्षाधिपोऽर्कादिः”[३]–इत्युक्तम् ।

अतस्तन्मतेनैतद्ग्रन्थारम्भशकाद्वर्षाधिपगणनम् ।

खनवदश-१०९० शेषशाके माघप्रथमांशके सितोऽब्दपतिः ।
चतुरंशोनैकाब्दे तुर्यस्य दिने तु सावनाब्दपतिः ॥

एवम् ।

 वर्षाधिपास्तृतीयक्रमेण मासाधिपा ग्रहा ज्ञेयाः ।
 होरेशा वारेशा स्पष्टाहोराऽत्रनाडिके सार्धे ॥
अत्राशुभफल वर्षे वर्षाधिपग्रहपूजाजपहोमादिका शान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे रव्यादिवर्षाद्भुतावर्त्तः ।


  1. कलियातसमागणे इत्यत्र कल्पयातसमागणे इति पाठेन भवितव्यम् । ब्रह्मगुप्तेनेपि कल्पाभिप्रायेणैवार्कादिवर्षेश्वर आनीतः ।
  2. मेत्रशब्देनात्र सप्तदशग्रहणम् ।
  3. द्रष्टव्यौ ब्राह्मस्फुटसिद्धान्ते मध्यगत्युत्तराध्यायस्य ४३ - ४४ श्लो. ।