पृष्ठम्:अद्भुतसागरः.djvu/२७२

पुटमेतत् सुपुष्टितम्
२५७
ऋक्षाद्यद्भुतावर्त्तः ।

पराशरस्तु ।

 अथ प्राग्दक्षिणस्यां विन्ध्यातटवासिनश्चेदिवसतिदशार्णाङ्गबङ्गोपबङ्गकलिङ्गजठ-रपुण्डकशूलिकविदर्भन प्नपर्णकशवरकाश्च ।क्षत्रपुरपूरिककण्टस्थलवृषद्दीपकोशलोर्ध्वकर्णोड्-रचार्मत्वग्लुतकाकचारुहेम-कूटव्यालग्रीव महाग्रीश्मश्रुधरनालिकेरद्वोपकिष्किन्धाधिवासिनः ।

मार्कण्डेयपुराणे तु ।

 कलिङ्गबङ्गजठराः कोशलाः शूलिकास्तथा ।
 चेदयश्चोर्ध्वकणाश्च मत्स्यान्ध्रा विन्ध्यवासिनः ॥
 विदर्भनालिकेराश्च चर्मद्वीपास्तथाऽलिकाः ।
 व्याघ्रग्रीवा महाग्रीवास्त्रैपुराश्मश्रुधारिणः ॥
 किष्किन्ध्यहिमकटाश्च निषधाः कण्टकस्थलाः ।
 दशार्णा हरिका नग्ना निषदाः काकुलालकाः ॥
 तथैव पर्णाः शवराः पादे वै पूर्वदक्षिणे ।

वराहसंहितायां तु ।

 आग्नेयां दिशि कोशलकलिङ्गवङ्गोपबङ्गजठराङ्गाः ।
 मैथिलविदर्भमत्स्यान्ध्रवैदिकाश्चोर्ध्वकर्णाश्च[१]
 वृषनालिकरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी ।
 श्मश्रुधरहेमकूट[२]व्यालग्रीवा महाग्रोवाः ॥
 किष्किन्ध्यकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः ।
 सह नग्नपर्णशवरैराश्लेषाद्ये त्रिके देशाः ॥

अथ प्रधानदेशा वडकणिकायाम् ।

 आश्लेषाद्ये त्रैपुरनिषादराष्ट्राणि चेदिदाशार्णाः ।
 पुरिका विन्ध्यान्तस्था वत्सान्ध्रविदर्भकालिङ्गाः ॥


  1. र्ध्वकण्ठाश्च इति अ. ।
  2. हेमकुड्य-इतिः अ ।