पराशरस्तु ।
एतेष्वनुपतप्तेषु मानवो नोपतप्यते ।
ऋक्षेषु षट्सु युगपत् संतप्तेष्वाशु नश्यति ॥
विष्णुधर्मोत्तरे तु ।
पीडिते चाभिषेकर्क्षे राष्ट्रभ्रंशे विनिर्दिशेत् ।
देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च ॥
पीडिते जातिनक्षत्रे राज्ञां व्याधिं विनिर्दिशेत् ।
वराहसंहितायां तु ।
रोगाभ्यागमवित्तनाशकलहाः संपीडिते जन्मभे
सिद्धिं कर्म न याति कर्मणि हते भेदस्तु सांघातिके ।
वित्तस्योपचितस्य सामुदायिके संपीडिते संक्षये
वैनाशे तु भवन्ति कायविपदश्चिन्तासुखं मानसे ॥
निरुपद्रुतभो निरामयः सुखभुङ्तष्टरिपुर्धनान्वितः ।
षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥
योगयात्रायां वराहः ।
न भवति शरीरपीडा यस्य विना शान्तिभिः पीडा ।
तस्य शरीरविपत्तिं पाकान्ते देवलः प्राहः ॥
अथ शान्तिमाह पराशरः ।
तत्र जन्मर्क्षोपतापे श्वेतवृषभस्य शकृन्मूत्रं तद्वर्णायाश्च गोः
पयः कुशाँश्चोदकुम्भे निधायाभिषेचनं कुर्यात् ।
काश्यपश्च ।
श्वेतदन्तिशकुन्मत्रैः श्वेतगोपयसा कुशैः ।
कलशैरभिषेक्तव्यो जन्मर्क्षं यस्य पीडितम् ॥
विष्णुधर्मोत्तरे तु
शकृन्मूत्रे च संगृह्य श्वेतस्य वृषभस्य तु ।
श्वेतगोपयसा सार्धं स्नातव्यं शभवारिणा