पृष्ठम्:अद्भुतसागरः.djvu/२९६

पुटमेतत् सुपुष्टितम्
२८२
अद्भुतसागरे

काश्यपः ।

 पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।

वराहसंहितयोस्तु ।

 मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि[१]
 स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥

यवनेश्वरस्तु ।

गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
 अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य पूजाजपहोमादिका शान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।

दिव्याश्रयः परिपूर्ण: ।


  1. बज्राणि इति अ. ।