पृष्ठम्:अद्भुतसागरः.djvu/२९७

पुटमेतत् सुपुष्टितम्
अथ

अन्तरिक्षाश्रये प्रतिसूर्याद्भुतावर्त्तः ।

तत्र शुभसूचकप्रतिसूर्यलक्षणं वटकणिकायाम् ।

 प्रतिसूर्यकः प्रशस्तो दिवसकृदनुवर्णसुप्रभास्निग्धः ।
 वैडूर्यनिभः स्वच्छः क्षेमसुभिक्षाय शुक्लश्च ।

अथ रवेरुदगादिषु प्रतिसूर्यफलं वराहसंहितायाम् ।

दिवसकृतः प्रतिसूर्यो जलकृदुग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥

विष्णुधर्मोत्तरे तु ।

 प्रतिसूर्यस्तदग्जलकृत् दक्षिणेनान्ताद्वातकृत् । उभयस्थितो महावर्षाय । उपरि राजमृत्यवे । अधस्ताज्जनविनाशाय । उभयतो महाभयाय । सर्वतस्त्रिभुवनपीडावहो भवति ।

पराशरस्तु ।

 तथा प्रतिसूर्यकेषु रवेः पूर्वतो युवराजस्य राज्ञो वधाय । दक्षिणपूर्वतोऽग्निवृद्धये । दक्षिणतो विग्रहाय । प्रत्यग्दक्षिणतो दस्युविनाशाय । प्रत्यग्वर्षदः । पश्चिमोत्तरतो वातवृष्टिदः । उत्तरतोऽतिवृष्टिकर: पूर्वोत्तरतश्च । सन्ध्यायां वहवश्च दृश्येरन् क्रमादिक्षु सकलनृपतिविनाशं कुमारवधं मरकभयं दस्युशस्यपीडामन्नक्षयं व्याधिशस्त्रकोपयजमानयाजकभयम् । पाखण्डिपीडां सप्रभे प्रतिसूर्ये । निष्प्रभे रवौ राष्ट्रवधं विद्यात् ।

वराहसंहितायाम् ।

उभयपार्श्वगतौ परिधी रवेः प्रचुरतोयकरौ वपुषाऽन्वितौ ।
अथ समस्तककुप्परिचारिणः परिधयस्तु कणोऽपि न वारिणः ॥