अथ दिक्फलं काश्यपः ।
अनावृष्ट्यां भवेद्वर्षमैन्द्र्यां वर्षत्यवर्षणम् ।
पश्चिमायां भवेद्वर्षं सदा कार्मुकसंस्थितौ ॥
विन्ध्यवासी च ।
कुरुते वृष्टौ वृष्टिं निहन्ति तामेव शक्रदिशि ।
कथयति सदैव वृष्टिं धनुरैन्द्रं पश्चिमाशायाम् ॥
वराहसंहितायां च ।
वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्रयाम् ।
पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥
पराशरस्तु ।
पश्चिमश्चेति सूर्ये तिष्ठत्यनुदेशं पुरस्तादृश्येत क्षेमाय स्यात् तनुवर्षाय विपरीतं वर्षविघाताय।
सन्ध्याकाले निवृत्ते तु पुनर्वषाय वर्षति ।
विपरीतमवर्षाय वर्षायैव तु पश्चिमम् ॥
वराहसंहितयोः ।
विदिगुद्भूतं दिक्स्वामिनाशनम् ..............।
पराशरः ।
प्रागुत्तरस्यां दिशि श्वेतवर्णचापदर्शनं दुर्भिक्षाय ।
अथ स्थानफलं वराहसंहितयोः ।
जलमध्येऽनावृष्टिर्भुवि शस्यवधस्तरुस्थिते व्याधिः ।
वल्मीके शस्त्रभयम्'.................-इति॥
अथावष्टब्धादित्येन्द्रधनुः फलं वराहसंहितायाम् ।
सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः ।
पराशरः ।
सूर्यं भूमिं चेद्विष्टभ्यति तदा पुरोहितवधः । सन्ध्ययोश्च सूर्याचन्द्रमसौ परिरभ्य विन्द्यान्मस्त्रिसेनानायकानामनामयम्-इति ।