शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।
यदुक्तं मयूरचित्रे ।
उपरुद्धं दिवानाथं शक्रचापं रुणद्धि चेत् ।
त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥
अथ समयफलं पराशरः ।
अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम्-इति ।
संस्थानकाले मेघगर्भाधानकाले ।
अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।
अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।
अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।
श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥
पराशरस्तु ।
रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च । पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।
वराहसंहितायाम् ।
निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥