निशि परिविष्टे चन्द्रमसीन्द्रधनुः फलं मयूरचित्रे ।
उपरुद्धे निशानाथे रात्राविन्द्रधनुर्यदि ।
तदा क्षोभः पुरस्य स्यात् परचक्रागमस्तथा ॥
अथेन्द्रधनुः फलं विष्णुधर्मोत्तरे ।
रात्राविन्द्रधनुश्चेद्व्यभ्रे महाभयाय च ।
वटकणिकायां च वराहः ।
व्यभ्रजं मरककारि.....................।
वराहसंहितायां च ।
व्यभ्रे नभसि सुरधनुर्दिवा यदा दृश्यतेऽथ वा रात्रौ ।
प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत् [१]॥
मत्स्यपुराणे ।
निरभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ।
इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥
परचक्रागमं ब्रूयाद्देशोपद्रवमेव च ।
बार्हस्पत्ये ।
निरभ्रे वा तथा रात्रौ श्वेतमिन्द्रायुधं यदि ।
पूर्वपश्चादुत्तरासु भवेद्दुर्भिक्षतो भयम् ॥
औशनसे तु ।
प्राच्यादिचतुरो वर्णान् हन्यादिन्द्रायुधं क्रमात् ।
रात्रौ श्वेतं तथा रक्तं पीतं कृष्णं च सर्वतः ॥
नारदः ।
रात्रौ चेन्द्रधनुर्यत्र दृश्यते यदि सत्तम ।
अद्भुतं तत्र विज्ञेयं शान्तिं चेमां समारभेत् ॥
औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद्द्विजः ।
- ↑ नेदं पद्यम् अ. पुस्तके उपलभ्यते ।