पृष्ठम्:अद्भुतसागरः.djvu/३२३

पुटमेतत् सुपुष्टितम्
२११
सन्ध्याद्भुतावर्त्तः ।

 प्रदीप्तलक्षणाः सन्ध्याः सर्वा एवाहितावहाः ॥
 भृशमुद्धातिनी सन्ध्या कुरुते विग्रहागमम् ।

तथा ।

प्रातः प्रदोषोद्रजसा निरुद्धा [१]अनभ्रवत्योऽपि घनातुरूपाः ।
क्रूराश्च सन्ध्या रुधिरप्रकाशा भयानि राज्ञः प्रतिवेदयन्ति ॥

वराहसंहितायां तु ।

 पांशुध्वस्ता जनपदनाशे धत्ते रूक्षा रुधिरनिभा वा ।

तथा ।

 गृहतरुतोरणमथने सपांशुलोष्टोत्करेऽनिले प्रबले ।
 भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥
 दीप्तविहङ्गशिवामृगघुष्टा दण्डरजःपरिघादियुता च ।
 प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षवधाय ॥
 अशुभाकृतिघनगन्धर्वनगरनीहारपांशुधूमवृता ।
 वृष्टिं करोत्यवग्रहमन्यर्त्तौ शस्त्रकोपकरी ॥
 दीप्तमृगाण्डजविरुता प्राङ्मध्या देशनाशमाख्याति ।
 दक्षिणदिक्स्थैर्विरुताद्ग्रहणाय पुरस्य दीप्तास्यैः ॥

हरिवंशे कंसवधनिमित्तम् ।

 "प्राक्सन्ध्या परिघग्रस्ता भाभिर्वाधति भास्करम्”[२]

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “उभे सन्ध्ये प्रकाशेते दिशो दाहसमन्विते[३]

अथ वर्णफलं वराहसंहितायाम् ।

 शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः ।
 प्रकृतिभवाः सन्ध्यायां स्वर्त्तौ सान्ध्या विकृतिरन्या ॥


  1. वातप्रकोपाद्रजसानिरुद्धा इति कचित् पाठः ।
  2. २३ अ २८ श्लो.।
  3. २ अ. ३० श्लो. ।