वराहसंहितायां तु ।
उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्त्ताः ।
किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥
शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः ।
अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते त्वमोघाख्याः ॥
पराशरः ।
रूक्षा विच्छिन्नास्तनवो ह्रस्वा धूमाभा लोहिता विवर्णा गर्हिताः ।
वराहसंहितायाम् ।
विच्छिन्नविषमविध्वस्तविकृतकटिलापसव्यपरिवृत्ताः ।
तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदा किरणाः ॥
कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशवलाभाः[१]।
त्रिदिनानुबन्धिनो वृष्टयेऽल्पभयदास्तु सप्ताहात् ॥
ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च रुग्व्यसनम्[२] ।
हरिताः पशुशस्यवधं धूमसवर्णा गवां नाशम् ॥
मञ्जिष्ठाभाः शस्त्राग्निसंभ्रमं बभ्रवः पवनवृष्टिम् ।
भस्मसदृशास्त्ववृष्टिं तनुभावं शवलकल्माषाः ॥
पराशरः ।
बन्धुजीवनिकाशेन तपनीयनिभेन वा ।
उदये रजसा सूर्यः संवृतः शस्त्रमावहेत् ॥
वराहसंहितायां तु ।
बन्धूकपुष्पाञ्जनवर्णसन्निभं सान्ध्यं रजोऽभ्येति यदा दिवाकरम् ।
लोकस्तदा रोगशतैर्निपीड्यते शुक्लं रजो लोकविवृद्धिशान्तये ॥
तथा च पराशरः ।
शङ्कचूर्णनिकाशेन रजसा संवृतो रविः ।