नेष्टाः क्षतजमाञ्जिष्ठबन्धुयावकवर्णकाः ।
सुपीतिपरुषश्याममेघवारणसन्निभाः ॥
सर्वा एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ।
ऋतौ तु वर्षं तीव्रं स्यात् सैन्यविद्रव एव वा ॥
अथ छायाव्यञ्जकदिग्दाहफलं वराहसंहितायाम् ।
याऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवद्यः ।
राज्ञो महद्वेदयते भयं स शस्त्रप्रकोपं क्षतजानुरूपः ॥
विष्णुधर्मोत्तरे ।
अतिदीप्तच्छायाव्यञ्जके राजमरणं विन्द्यात् ।
अथ दिवफलं बार्हस्पत्ये ।
दिक्षु चौरैः[१] प्रपीडयन्ते यथा दिग्देशभक्तयः ।
शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारिणः ॥
दिगधिकारिकान् सर्वान् शाकुनाद्भुतावर्त्ते वक्ष्यामः ।
वराहसंहितायाम् ।
प्राक् क्षत्रियाणां सनेश्वराणां प्राक्दक्षिणे शिल्पिकमारपीडा ।
याम्ये सहोग्रैः पुरुषैश्च वैश्या दूताः पुनर्भूप्रमदाश्च कोणे ॥
पश्चात् तु शूद्राः कृषिजीविनश्च चौरास्तुरङ्गैः सह वायुदिक्स्थे ।
पीडां व्रजन्त्युत्तरतश्च विप्राः पाखण्डिनः स्युर्वणिजश्च शार्व्याम् ॥
पराशरस्तु ।
अथ दिग्दाहेषु प्राच्यादिष्वष्टासु दिक्षु दह्यमानासु विद्यात् तत्रैव देशे। अष्टमासान्तरादनावृष्टिभयं त्रिमासाद्रोगं महोत्पातं च भवमासादग्निप्रकोपं दशमासाद्वलक्षयं मासाद्राक्षः शस्त्रेण भयम् । अष्टाभ्यः सर्वतो भयं सप्तभ्यो युवराजभयं षड्भ्यः कन्यानां भयम् । सप्ताहात् सर्वासु चावर्षम् ।
- ↑ त्वासु इति क. ।