अथ तमोधूमरजोनिहाराद्भुतावर्त्तः ।
तत्र पराशरः ।
अथ तमांसि स्थानदिग्वर्णविशेषैः शुभाशुभं दर्शयति प्रजानाम् । स्थानफलमाह भूम्याश्रिते तमसि वर्षंं विन्द्यात् । नभसि महावर्षम् ।
मत्स्यपुराणपद्मपुराणहरिवंशेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।
"विवेश रूपिणी काली कालमेवावगुण्ठिता।
द्यौर्न भात्यभिभूतार्का घोरेण तमसाऽऽवृता" [१] ॥
पराशरः ।
शरदन्नप्राचुर्यमुदक्चराणां च प्राणिनामुपद्रवम् । पर्वतौषधीनामभावं ग्रामनगरजनपदपीडाम् । आरण्यककाण्डे जनस्थाननिवासिनां वधनिमित्तम् ।
"तमसा चैव घीरेण समुद्भूतेन सर्वतः
प्रच्छादितं जनस्थानं नीचाकाशे समन्ततः”[२] ॥
मत्स्यपुराणे च ।
अनैशानि तमांसि स्युर्यत्र तच्चाशु नश्यति ।
अथ दिक्फलं पराशरः ।
दिक्षु जनपदपीडनम् ।
आदिकाण्डेषु परशुरामपराजयनिमित्तम् ।
"दिशः सतिमिराश्चासन् न तताप दिवाकरः” [३]।
मत्स्यपुराणपद्मपुराणहरिवंशेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।
"तिमिरौघपरिक्षिप्ता न राजन्ते दिशो दश"[४] ।