तानि भाग्यक्षयाद्भूयः प्रच्युतानि नभस्तलात् ।
क्षितौ सलक्षणान्येव निपतन्तीह भार्गव ॥
तेषां निपतनं विप्र यत्र यत्रेह जायते ।
तत्र तत्रैव विविधं प्रजानां जायते भयम् ॥
तत्र सामान्येन पतता ज्योतिर्विशेषेणैवोल्केति संज्ञा प्रतिपादिता । पञ्चविधा चोल्का भवति ।
तथा च वराहसंहितायाम् ।
धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ।
वटकणिकायां च ।
उल्काऽथ पञ्चरूपा धिष्ण्योल्काविद्युतोऽशनिस्तारा ।
बार्हस्पत्ये ।
तारा धिष्ण्यास्तथोल्काश्च विद्युतोऽशनयस्तथा ।
विकल्पाः पञ्चधा चैषां परस्परबलोत्तराः ॥
तारालक्षणमाह काश्यपः ।
पद्मताम्राकृतिस्तारा हस्तमात्रायता मता ।
वटकणिकायाम् ।
तारा तु हस्तमात्रा यात्यूर्ध्वमधश्च श्वेतताम्राः ।
वराहसंहितायां च ।
तारा तु हस्तदीर्घा शुक्ला ताम्राब्जतन्तुरूपा च ।
तिर्यगधश्चोर्ध्व वा याति वियत्यूह्यमाने च ॥
बार्हस्पत्ये तु ।
यस्तु शुक्लेन वर्णेन वपुषा पेशलेन च ।
पद्मतन्तुनिकाशेन धूमराजीनिभेन वा ॥
उल्काविकारः सोऽप्युक्तस्तारका नाम नामतः ।
अथ धिष्ण्यालक्षणम् । तत्र काश्यपः ।
धनूंषि दश दृश्येत धिष्ण्या सक्ष्मा च विच्यता ।