ज्वलिताङ्गारवर्णाभा द्वौ ह हस्तौ दृश्यते नभे[१] ॥
वटकणिकायाम् ।
धिष्ण्या सिता द्विहस्ता धनूंषि दश याति कृतदेहा ।
बृहत्संहितायाम् ।
धिष्ण्या कृशाऽल्पपुच्छा दश धनुषो दृश्यतेऽन्तराभ्यधिका ।
ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥
बार्हस्पत्ये तु ।
ज्वलिताङ्गारसंकाशा जिाह्मगा त्वथ शीघ्रगा।
विना पुच्छावकाशेन द्विहस्ताऽतिकृशेन वा ॥
दशान्तराणि धनुषः पञ्च वाऽपि प्रदृश्यते ।
उल्काविकारो बोद्धव्यो धिष्ण्या इत्यभिधीयते ॥
अथ विद्युल्लक्षणम् । तत्र काश्यपः ।
विद्युत् त्रासकरी भीमा शब्दायन्ती चटाचटा ।
वटकणिकायां वराहः ।
विद्युत् तटतटाशब्दा ज्वालामालाकुला पतति ।
वराहसंहितायां च ।
विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
कुटिलविशाला निपतति जीवन्धनराशिषु ज्वलिता ॥
बार्हस्पत्ये तु ।
तत्र शब्देत न महता भृशं तटतटायिना ।
सत्ववित्रासनात्यर्थं शब्देनोद्देशकारिणा ॥
ज्वालामालाविसर्पिण्यः प्रकृत्याऽत्युग्रदर्शनाः ।
विद्युतो निपतन्त्याशु जीवत्सु वनराजिषु ॥
अथाशनिलक्षणं वटकणिकायाम् ।
अशनिः प्राणिषु निपतति दारयति धरातलं बृहच्छब्दा ।
- ↑ नभसि-इह नभे इत्यार्थः ।