पृष्ठम्:अद्भुतसागरः.djvu/३४४

पुटमेतत् सुपुष्टितम्
३३२
अद्भुतसागरे

तथा ।

 उल्कावर्षो यदि भवेच्छिलावर्षसमन्वितः ।
 योधमुख्यसहस्राणां भूमिः पास्यति शोणितम् ॥

आदिपर्वणि गरुणेन गजकच्छपभक्षणनिमित्तम् ।

 ".............पेतुरुल्काः सहस्रशः”[१]

मौशले वृष्णिवंशक्षयनिमित्तम् ।

 "उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि"[२]

पराशरः ।
 या चावनिमभिपत्याशु पुरुषमात्रमभिज्वलेत् सा पञ्चमासाभ्यन्तरादन्यभूपतिकारिणी स्यात् । या च निपत्याङ्गारमिवाभासेन्मुहुरन्तर्दशरात्रीः साऽन्यमवनिपतिमधिकुर्यात् ।
पद्मपुराणे तारकामययुद्धे देवानां पराजयनिमित्तम् ।

 पेतुरुल्काः सहस्राणि निपेतुः खचराणि च ।

पराशरः ।

 तथा सुमहती सधूमज्वाला तारागणानुसृता यमभिप्रायात् तमपसव्यतः प्रतिलोमं वाऽऽगच्छेत् तं हन्यात् ।

अथोल्काया अधोमुखादिपतनफलं बार्हस्पत्ये ।

 अधोमुखो नृपं हन्याद्ब्राह्मणानूर्ध्वगामिनी ।
 तिर्यगाराजपत्नीश्च श्रेष्ठिनः प्रतिलोमिनी ॥

वराहसंहितायाम् ।

 हन्त्यधोमुखी नृपान् ब्राह्मणाँस्तथोर्ध्वगा।
 तिर्यगानृपाङ्गानाः श्रेष्ठिनः प्रतीपगा ।

अथ वर्णफलं गार्गीये ।

 यदा विनिपतन्त्युल्काः कुन्देन्दुरजतप्रभाः ।
 राजा विजयमाप्नोति सुभिक्षेक्षेम एव च ॥


  1. ३० अ. ३५ लो ।
  2. १ अ ३ श्लो. ।