विष्णुधर्मोत्तरे ।
दिवोल्का चन्द्रार्कविनिर्गता उद्योतिनी अतिस्थूला सस्फुलिङ्गा तथोर्ध्वगा राजमृत्यवे स्यात् ।
अथ ग्रहनक्षत्रपीडाकृदुल्काफलं मयूरचित्रे ।
ग्रहर्क्षसोमसूर्येषु पतन्त्युल्का भयावहाः ।
कास्यपः ।
नक्षत्राणि ग्रहाश्चैव उल्कया ध्वस्तधूपिताः ।
तद्देशनाथनाशाय लोकानां संक्षयाय च ॥
पराशरस्तु ।
सूर्यमेव चेदभिहत्योल्का याम्यां दिशमभिपतेद्राज्ञो वधाय ।
पराशरः ।
या चार्कचन्द्रयोरग्रतो निपतेन्नृपतिजयमविजयं च पृष्ठतः।
वराहसंहितायाम् ।
पौरेतरघ्नमुल्काऽपसव्यकरणं दिवाकरहिमांश्वोः ।
उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥
आदित्यमण्डलादुल्कपातोऽतीव भयावहः । तथा च भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"पपात महती, चोल्का मध्येनादित्यमण्डलात्"[१] ।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“पपात महती चोल्का आदित्यान्निःस्वनत्युत”[२] ।
स्कन्दपुराणे लोकोद्वेगनिमित्तम् ।
दिवाकरात् कबन्धाङ्गात् पेतुरुल्काः समन्ततः ।
चन्द्रविम्बविनिःसृताऽपि दोषावहा भवति । वराहसंहितायाम् ।
संस्पृशती चन्द्रार्कौ तद्विम्बविनिःसृता सभूकम्पा ।