आथर्वणाद्भुते ।
दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥
एतदपि दिवापतितमहोल्कापरम् ।
तत्रैव ।
दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः [१] ।
दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥
वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
गृहीत्वा नवरात्रं त तपेन्मूलाशनो यतः ॥
फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
नवाहान्ते त्रिरात्रं तु सलिलेनैव वर्त्तयेत् ॥
प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥
महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥
तथा समरसश्चैव एतेषां निर्दिशेद्बलिम् ।
आपूपं भक्तसहितं शूर्पे सचरुमेव [२] च ॥
रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥
श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥
सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥