भागवते हिरण्यकशिपूत्पत्तौ ।
"ववौ वायुः सुदुःस्पर्श: फूत्कारानीरयन् मुहुः ।
उन्मूलयन् नगपतीन् वात्यानीको रजोद्धतः"[१] ॥
अथ दिक्फलं गार्गीये ।
पूर्वोऽभ्रजननो वायुरितरोऽभ्रविनाशनः ।
उदग्जनयते वृष्टिं वर्षत्येव च दक्षिणः ॥
उदग्जनयते वृष्टिमिति हिमसमयव्यतिरेकेण ।
पराशरः ।
तत्र पूर्वौ मेघानां संजननः । पश्चिमो विनाशनोऽन्यत्र नभोनभस्ययोः । नित्यं वर्षायोत्तरः । दक्षिणोऽभ्रसंप्लवकरो मन्दवर्षाणि यच्छत्यपिवाऽन्यवातजं वर्षम्। नैर्ऋतो वायव्यश्चाभ्रवान् महावर्षाय । ऐशान्यो मृदुरपि वर्षाय ।नानावातसंपातो महावर्षाय । सर्वेषां चान्यवातेकृतानामभ्राणामुपसृष्टवर्षाणां तत्प्रतिलोमो विनाशाय ।
अनुपसृष्टवर्षाणां तु महावर्षाय। पूर्वश्चेन्महाशब्दो नीचैर्वलाहकानामाकर्षी महावर्षायैव स्यात् । यस्यां च दिशि पूतिगन्धिनो निमित्तमागच्छेयुस्तस्यां दिशि शस्त्रकोपजननं विन्द्यात् ।
उद्योगपर्वणि हस्तिनापुरोत्सादनिमित्तम् ।
“प्रामथाद्धस्तिनपुरं वातो दक्षिणपश्चिमः ।
अरुजन् गणशो वृक्षान् परुषोऽशनिनिःस्वनः”[२] ॥
अत्र समयफलम् । तत्र पराशरः ।
ग्रीष्महेमन्तयोश्चेन्नाभिवर्षेद्वर्षाणां सम्पदं कुर्यात् । आधानकाले शर्कराकर्षिणो नीचैः स्वराः खरवपुषश्च शस्यन्ते ।
आदिपर्वणि जतुगृहदाहानन्तरं पाण्डावानां वनप्रवेशे कौरववधनिमित्तम् ।
“अप्रकाशा दिशः सर्वा वातैरासन्ननार्त्तवैः”[३] ।