पृष्ठम्:अद्भुतसागरः.djvu/३६७

पुटमेतत् सुपुष्टितम्
अद्भुतसागरे ।

पूर्वादिदिग्वातफलमभिधाय पराशरः ।
 सर्वेष्वेवातिमात्रेष्वनवरतेषु शीघ्रेषु सप्तरात्रपरेषु भयं महावर्षं वा विन्द्यात् । द्वादशरात्रपरेषु महावर्षं राजमृत्युं वा । पक्षपरेषु भयमेव च । तत्र क्षुद्भयमैन्द्रे । आग्नेये क्षुच्छशस्त्रभयं दस्युतो राजदेशविनाशयोरन्यतरम् । याम्ये मूलफलपुष्पघातमुत्पातातङ्कपिटकभयम् । नैर्ऋते कृमिपतङ्गदंशमशककक्लेशशस्त्रप्रादुर्भावमीति चाधिकाम् वारुणे फलपुष्पदमारोग्यं वा । वायव्ये क्षुच्छस्त्रभयै राजदेशविनाशयोरेकतरम् । सौम्ये क्षेमसुभिक्षम् । ईशाने शस्यसम्पदम्। सर्वतो दिग्भ्यस्तु युगपन्महाराजभयं सर्वदा ।
आषाढपौर्णमास्यां तु विशेषमाह पराशरः ।

 अतोऽनन्तरमाषाढीसंयुक्ते शशिनि सुरभिरनुकूलः स्पर्शवान् मारुतः । पूर्व: पूर्वोत्तर उत्तरी वर्षशस्यातिवर्षकरो नैर्ऋताग्नेययाम्यवारुणवायव्यो मध्यशस्यवर्षकरः । विपर्ययो विपरीतेषु । आधानविसर्गान्तभागे निमित्तानि प्रावृषामाद्यन्तेषु मध्येषु फलम्- इति ।
आन्तरिक्षत्वादन्यत्र षाण्मासिकः फलपाकः ।
वातोत्पातशान्तिर्मत्स्यपुराणे ।

 त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ।
 वैकृते वातजे वाऽपि वायव्या शान्तिरिष्यते ॥

वायोश्च पूजा द्विजशक्तुभिश्च हुत्वा तदुक्ताँश्च जपेच्च मन्त्रान् ।
दद्यात् प्रभूतं परमान्नमत्र सदक्षिणं तेन समोऽस्य भूपः ॥

वराहसंहितायाम् ।

 वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
 अवायोरिति पञ्चर्चा जप्याश्च प्रयतैर्द्विजैः ॥
 ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।