हस्त्यश्वयोधानामन्यतमश्रेष्ठविनाशाय । कपिलः कृष्णो वा तथा भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय । सन्ध्याकृतिश्चेत् पीतमाञ्जिष्ठनीलो वा हन्याद्राजानम् । पीतवर्णोऽर्कस्य पच्यमानः सद्यो बलकोपाय । पीताग्रश्चेद्घनः सन्ध्यायां प्रकाशेताहितक्षयाय । बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो वैश्यानाम् । कृष्णः शूद्राणाम् । चित्रो गणकानाम् । बहवश्चेद्गर्दभरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्रश्चेद्दृश्यमान आदित्यमियादभ्रवृक्षाकारोऽपि महते भयाय स्यात् । अच्छिन्नश्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य तिष्ठन् नीलश्चेताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादुदीयादस्तमियाद्वाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालेषु स्तनयित्नुनिर्घोषः सतडित्कलापस्तमधिसप्ताभिहन्याच्छदयँस्तामभियुञ्जीत राजा ।
सन्ध्यालक्षणे एव वराहसंहितायाम् ।
दधिसदृशाग्रे नीलो भानुच्छादी स्वमध्यगोऽभ्रतरुः ।
पीतच्छुरिताश्च घना घनमूला[१]स्ते भवन्ति वृष्टिकराः ॥
पराशरः ।
आषाढीसंयुक्ते शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
अनुलोमगेऽभ्रवृक्षे समुद्गते यायिनो नृपस्य बधः ।
वालतरुप्रतिरूपे युवराजामात्ययोर्मृत्युः ॥
पराशरः ।
अथाभ्रपरिघस्त्रिवर्णो भानुमावृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय । माञ्जिष्ठोऽग्निभयाय ।
- ↑ भूरिवृष्टिकरा इति अ ।