पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥
हत इति आघाननक्षत्रहननेन हत इत्यर्थः ।
तथा च पराशरः ।
येषु येषु नक्षत्रेषु गर्भस्थितिः स्यात् तेषु तेषु ग्रहाणामुदयास्तमयोल्कानिर्घाताशनिनिपातगन्धर्व नगरदिग्दाहार्करश्मिविकारभूचलनप्रादुर्भावो वर्षास्ववर्षाय ।
पुष्णाति बहून् दिवसानित्यत्र विशेषो बृहत्संहितायाम् ।
मार्गशिरादिष्वष्टौ षट् षोडशविंशतिश्चतुर्युक्ता ।
विंशतिरथ दिवशत्रयमेकतमर्क्षेण पञ्चभ्यः ॥
क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः ।
शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥
गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
द्रोणाष्टांशेऽभ्यधिके वृष्टेर्गर्भः स्रुतो भवति ॥
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ॥
काठिन्यं याति यथा चिरकालघृतं पयः पयस्विन्याः ।
कालातीतं तद्वत्सलिलं काठिन्यमुपयाति ॥
वराहसंहितायाम् ।
ज्येष्ठसितेऽष्टस्याद्याश्चत्वारो वायुधारणा दिवसाः ।
मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥
वायोः संपर्कान्मेवैर्गर्भा धृयन्ते येषु ते वायुधारणा मृदुपवनादिमन्तः शुभा भवन्ति ।
काश्यपस्तु ।
ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदैवते ।
चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः ॥