नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः ।
विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥
एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
अनार्यैस्तस्करैर्घोरैः पीडा चैव सरीसृपैैः ॥
वराहसंहितायाम् ।
यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
तस्करभयदाः प्रोक्ताः श्लोकाश्चाप्यत्र वाशिष्टाः ॥
सविद्युतः सपृषतः सपांशूत्करमारुताः ।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥
यदा वा विद्युतः श्रेष्ठाः शुभाशा: प्रत्युपस्थिताः ।
तदाऽपि सर्वशस्यानां वृद्धिं ब्रूयाद्विचक्षणः ॥
सपांशुवर्षा सापश्च शुभा बालक्रिया अपि ।
पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥
रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
वृष्टिस्तदाऽपि विज्ञेया सर्वशस्याभिवृद्धये ॥
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
तदा स्यान्महती वृष्टिः सर्वशस्यार्थसाधिका- इति ॥
पराशरः ।
विशेषतो ज्येष्ठबहुलपक्षद्वादश्यादिदिनचतुष्टयं धारणं गर्भाणाम् । ऋमात् सप्ताहोरात्रस्रावो मासविघाताय ।
वराहसंहितायाम् ।
तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
श्रावणपूर्वा ज्ञेयाः परिस्रुताः धारणास्ताः स्युः ॥
ज्ञेया इत्यनावृष्टिमन्तो ज्ञेया इत्यर्थः । अत्र हेतुः परिस्स्रुता इति ।