यदार वटकणिकायाम् ।
ज्येष्ठसितस्वात्याद्यैः श्रावणपूर्वं चतुष्टयं ज्ञेयम् ।
वृष्टेस्तत्रावृष्टिः समरूपा धारणाः शुभदाः ॥
काश्यपश्च ।
स्वातौ तु श्रावणं हन्याद्वृष्टेरेवाग्निदैवतम् ।
भाद्रपदे त्ववृष्टिः स्यान्मैत्रे चाश्वयुजे स्मृताः ॥
ऐन्द्रे तु कार्त्तिके त्वेवं वृष्टे वृष्टिं निहन्ति च ।
एतेषु यदि नो वृष्टस्तदा सौभिक्षलक्षणम् ॥
वराहसंहितायाम् ।
दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति ।
तस्य मुनेरिव वाणी न भवति मिथ्याऽम्बुनिर्देशः ॥
अत्रानुक्तविशेषशान्तिषु गर्भाद्भुतेषु सावित्रीमत्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्ति रौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मेघानां गर्भाद्भुतः ।
अथ प्रवर्षणाद्भुतावर्त्तः ।
तत्र वराहसंहितायाम् ।
ज्येष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन ।
शुभमशुभं वा वाच्यं परिमाणं वाऽम्भसस्तज्जैः ॥
शुभमशुभमिति । सम्प्रष्टेन शुभमर्थादसम्प्रवृष्टेनाशुभम् । शुभमशुभं च शस्यनिपत्त्युचितानुचितवृष्टिरूपो गर्भधाणोक्तवृष्ट्यपवादोऽयम् । परिमाणं चेति । वृष्टौ सत्यां परिमाणं ज्ञातव्यमिति ।