येन धरित्री मुद्रा जनिता वा विन्दवस्तृणाग्रेषु ।
वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥
पूर्वाषाढादौ नक्षत्रे एवम्भूतायां वृष्टौ वक्ष्यमाणं प्रसवकालेऽपि पूर्वाषाढादौ नक्षत्रे वृष्टिपरिमाणं वाच्यमित्यर्थः ।
वृष्टपरिमाणमेवम् ।
हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥
श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
फाल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रौणाः ॥
ऐन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दशत्र्यधिकाः ।
आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः ॥
पञ्चदशाजे पुष्ये च कीर्त्तिता वाजिभे दश द्वौ च ।
रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रुतेष्वेते ॥
वटकणिकायां च ।
[१]द्वादश शक्रा आशास्तत्त्वानि नृपा धृतिर्नखास्तिथयः ।
विश्वे मनवोऽसुकराशस्तत्त्वानि [२]नृपा नृपा वेदाः ॥
विंशतिरिन्द्रा वेदाः शक्रा क्षितिपा नखाश्चतुर्दश तु ।
भूपा वेदास्तिथयस्तत्त्वानि नृपाः क्रमाद्द्रोणाः ॥
अश्विनिपूर्वेष्वेते ज्ञेया निरुपद्रवेषु पूर्णफलाः ।
पापग्रहाभिभूतेषु वृष्टिरोगातिभयजनकाः ॥
बृहत्संहितायां तु ।
रविसुतकेतुपीडिते भे
क्षितितनयत्रिविधाद्भुताहते च ।