पृष्ठम्:अद्भुतसागरः.djvu/३९०

पुटमेतत् सुपुष्टितम्
३७९
अतिवृष्ट्याद्यद्भुतावर्त्तः ।

लङ्काकाण्डे प्रहस्तवधनिमित्तम् ।

 "व्यभ्रमाकाशमाविश्य घोररूपः खरस्वनः ।
 ववर्ष रुधिरं देवः प्रहस्तस्य रथोपरि"[१]

उत्तरकाण्डे माल्यवदादिराक्षसवधनिमित्तम् ।

 “अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च”[२]

तत्रैव जगदुद्वेजकरावणोत्पत्तौ

 “ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः”[३]

उद्योगपर्वणि भीष्मसेनापत्यकरणे भीष्मवधनिमित्तम् ।

 “प्रादुरासीदनभ्रे च वर्षं रुधिरकर्दमम्”[४]

आश्वमेधिके सैन्धवपराजयनिमित्तम् ।

 “रासभारुणसंकाशा धनुष्मन्तः सविद्युतः ।
 आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्”[५]

गदापर्वणि पाण्डवशिविरविनाशनिमित्तकथने धृतराष्ट्रे सञ्जयवाक्यम् ।

 "तथा शोणितवर्षं च पांशुवर्षं च भारत ।
 ववर्ष मघवाँस्तत्र तव पुत्रे निपातिते”[६]
 "पर्जन्यः पांशुवर्षी च मांसवर्षी च भारत"[७]

स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।

 पपात नभसो रेणुः कपोतोदरधूसरः ।

मयूरचित्रे ।

 पांशुतैलवसामांसवृष्टौ माण्डलिनां वधः ।

बार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।

 अङ्गारपांशुवर्षे तु नगरं तद्विनश्यति ।
 मज्जास्थिस्नेहमांसानां जनमारभयं वदेत् ॥


  1. वाल्मीकीयेऽन्यथा पाठः । द्रष्टव्या ५७ सर्गे ३४-३७ श्लोकाः ।
  2. वाल्मीकीये ६ सर्गे ५४ श्लो.।
  3. वाल्मीकीये ९ सर्गे ३१ श्लो. ।
  4. १५६ अ २८ श्लो ।
  5. ७७ अ. ११ श्लो. ।
  6. ५८ अ. ५१-५२ श्लो. ।
  7. नेदं पद्यार्धमुक्तस्थले उपलभ्यते ।