पृष्ठम्:अद्भुतसागरः.djvu/३९२

पुटमेतत् सुपुष्टितम्
३८१
अतिवृष्ट्याद्यद्भुतावर्त्तः ।

बृहद्यात्रायां वराहः ।

 धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम् ।
 सिकतारजोवसामृतशर्करकाङ्गारवर्षेषु ॥
 सुतपत्नीक्षुद्रोगा नृपवेशचमूमरणसंक्लेशैः ।
 भेदोपजापमव्रिव्याधिभयविनाशभयशोकाः ॥

बार्हस्पत्ये तु ।

 वृष्टिर्यदा वर्षति रेणुवर्षं तस्योपरिष्टाद्धरितालवर्षम् ।
 अदृष्टपूर्वं च यदा प्रवर्षेत् तदा बलं नश्यति पार्थिवस्य ॥

अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 सूर्येन्दुपर्जन्यसमीरणानां यागः स्मृतो वृष्टिविकारकाले ।
 धान्यं च गोकाञ्चनदक्षिणाश्च देयास्ततो नाशमुपैति पापम् ॥

बार्हस्पत्ये तु ।

 सूर्येन्दुवायुपर्जन्या यष्टव्या वर्षवैकृते ।
 अन्नानि सहिरण्यानि धान्यं गावश्च दक्षिणाः ॥
 वैश्वदेवाश्च होतव्याः सर्वाद्भुतविनाशनाः ।
 चतुर्णामपि वर्णानामभयं विद्यते ततः ॥
 गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ।
 शतनिष्काश्च दातव्या अलाभे तु गवां शतम् ॥

मयूरचित्रे ।

 हेमरक्तास्त्रपाषाणबालमुत्पांशुकर्दमैः ।
 पुष्पायस्ताम्रकेशैश्च पृष्टौ सौर्या चरुक्रिया ॥
 दिव्ये सूर्याय स्वाहेति प्रभृत्युक्तांऽतिदिश्यते ।

तत्रैव ।

 प्रावृट्काले यदा मेघः पांशुवृष्टिं विमुञ्चति ।
 चक्रवर्तिवधः प्रोक्तस्तदा गर्गेण भागुरे ॥