फलपाकस्त्वस्य मासद्वयेन ।
तथा च वटकणिकायाम् ।
आर्यम्णपूर्वं भचतुष्टयं च शाशाङ्कमादित्यमथाश्विनेयम् ।
वायव्यमेतत् पवनः प्रचण्डो मासद्वयेनाशुभदः प्रजानाम् ॥
अत्र मयूरचित्रोक्ता त्रयोदशी शान्तिर्लिख्यते ।
शान्तिमत्र प्रवक्ष्यामि सर्वोपद्रवनाशिनीम् ।
पूजयेत् तत्र वायुं च चरुं कुर्यात् तथाऽऽशनम् ॥
आवायो वृयेत्यनेन मन्त्रेणाष्टोत्तरं तथा ।
सहस्राणि तु पञ्चैव जुहुयात् समिधं शुचिः ॥
औदुम्बरीघृतेनाक्तां वाञ्छयन् शान्तिमुत्तमाम् ।
पायसं मधुसंयुक्तं दधिक्षीरगुडोदनम् ॥
ब्राह्मणान् भोजयेच्चैव हुतान्ते भूरि दक्षिणाम् ।
सुवर्णं रजतं कांस्यं गृहं दासीसमन्वितम् ॥
अनड्वाहं च धेनुं च ब्राह्मणेभ्यो निवेदयेत् ।
इति त्रयोदशी शान्तिः ।
अथाग्नेयमण्डलमौशनसे ।
दक्षिणेन चलेद्भूमिराग्नेये सप्तके गणे ।
द्वितीययामे मध्याह्ने चाग्नेयः कम्प उच्यते ॥
तत्र बीजानि दह्यन्ते शुष्यन्ते चैव सागराः ।
दुर्भिक्षभयचौरादोंस्तस्मिन् कम्पे विनिर्दिशेत् ॥
द्वितीययामे रात्रेर्द्वितीयप्रहरे मध्याह्ने दिनस्य द्वितीयप्रहरे इत्यर्थः ।
तथा च मत्स्यपुराणे ।
द्वितीये दिनयामे च रात्रौ च रविनन्दन ।
पुष्याग्नेयविशाखासु पित्र्याजभरणीषु च ॥
उत्पाता ये तथा भाग्य आग्नेयीं तेषु कारयेत् ।
विष्णुधर्मोत्तरेऽप्येवम् ।