तथा च गर्गः ।
निर्घातोल्कामहीकम्पाः स्निग्धगम्भीरनिःस्वनाः ।
मेघस्तनितशब्दाश्च सूर्येन्दुग्रहणं तथा ॥
मण्डलैरेव बोद्धव्याः शुभाशुभफलप्रदाः ।
वटकणिकायां च ।
उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
वातोऽतिचण्डो ग्रसनं रवीन्द्वोर्नक्षत्रताराग्रहवैकृतानि ॥
व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्नौ विस्फुलिङ्गार्चिषो वा ।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा ॥
सन्ध्याविकारः परिवेषदण्डा नद्यः प्रतीपा दिवि तूर्यनादः ।
अन्यच्च यत् स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव विचिन्तनीयम् ॥
अथ शुभसूचकभूकम्पलक्षणम् । तत्र पराशरः ।
स्निग्धस्वनाः प्रदक्षिणानुयायिनोऽम्बुधरधाराभिषिक्ताः पर्वसुच सर्व एव प्रशस्यन्ते ।
अथाशुभसूचकभूकम्पलक्षणम् ।तत्र हरिवंशे कंसवधनिमित्तम् ।
“चलत्यपर्वणि मही गिरीणां शिखराणि च”[१] ।
पराशरः ।
अवनेर्विदरणमतिमात्रचलनं महाभयाय -इति ।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“चचाल चापि पृथिवी सशैलवनकातना" [२] ।
गदापर्वणि पाण्डवशिविरपराजयनिमित्तम् ।
“चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ।
स्कन्दपुराणे प्रह्लादपराजयनिमित्तम् ।
चचाल सकला तूर्वी धराधरसमन्विता [३] ।