गदापर्वणि दुर्योधनवधनिमित्तम् ।
"उदपानगताश्चापो व्यवर्धन्त समन्ततः"[१]।
उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।
“अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः”[२] ।
भगवते हिरण्याक्षोत्पत्तौ ।
"चुक्रोश विमनाश्चाब्धिरूर्मिभिः क्षुभितोदरः ।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः "[३] ॥
भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।
"नद्यो नदाश्च क्षुभिताः सरासिं च मनांसि च"[४] ।
गार्गीये ।
जलाशयगतं वारि यत्र भ्राम्यति चक्रवत् ।
वर्धते हीयते वाऽपि तत्र राजवधो भवेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
नगरादपसर्पन्ते समीपमुपयान्ति वा ।
अशोष्या वाऽपि शुष्यन्ति प्रतीपं प्रवहन्ति वा ॥
नद्यो ह्रदाः प्रस्रवणा विरसा वा भवन्ति तु ।
विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
क्षीरस्नेहसुरारक्तं वहन्ते व्याकुलोदकाः ।
षण्मासाभ्यन्तरे तत्र परचक्रागमो भवेत् ॥
वृद्धगर्गस्तु ।
नगरादपसर्पन्ते सरत्वन्तीऽथनिम्निगाः ।
अशोष्या अपि शुष्यन्ति विमार्गं प्रवहन्ति वा ॥
ह्नदपल्वलकूपानामुदधेर्वाऽपि नर्दनम् ।
अचिरात् तत् पुरं शून्यं भवतीत्यभिनिर्दिशेत् ॥
प्रतिस्रोतो वहन्ते वा विरसं चारुनिम्नगाः ।