पृष्ठम्:अद्भुतसागरः.djvu/४३६

पुटमेतत् सुपुष्टितम्
४२५
देवप्रतिमाद्भुतावर्त्तः ।

स्वेदयुद्धधूमस्नेहदधिपयःशोणिताद्यनिमित्तप्रवर्त्तनंमहतां विनाशाय ।
औशनसे ।

 दैवतानि प्रसर्पन्ति यस्य राज्ञो हसन्ति च ।
 उद्वीक्षन्ते प्रधावन्ति तत्र विन्द्यान्महद्भयम् ॥

वराहसंहितायां तु ।

 अनिमित्तचलनभङ्गस्वेदास्रुनिपातजल्पनाद्यानि ।
 लिङ्गार्चायतनानां नाशाय नरेन्द्रदेशानाम् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 देवातार्चा: प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।
 आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ॥
 उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति नमन्ति च ।
 कूजन्ते विक्षिपन्ते वा शस्त्रप्रहरणध्वजान् ॥
 अवाङ्मुखाश्च तिष्ठन्ति स्थानात् स्थानं व्रजन्ति वा ।
 वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो वसाम् ॥
 एवमाद्याः प्रदृश्यन्ते विकाराः सहसोत्थिताः ।
 लिङ्गायतनचैत्येषु तत्र वासं न कारयेत् ॥
 राज्ञो वा व्यसनं तत्र स वा देशो विनश्यति ।

हरिवंशे कंसवधनिमित्तम् ।

 “चलिता देवताः स्थानात्........"[१]

तत्रैव हिरण्यकशिपुवधनिमित्तम् ।

 “उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
 विक्रोशन्ति च गम्भीरं धूमायन्ति ज्वलन्ति च ॥
 प्रतिमाः सर्वदेवानां कथयन्त्यो युगक्षयम्"[२]


  1. २३ अ ३२ श्लो. ।
  2. भविष्यपर्वणि ४६ अ. १८-१९ श्लो.।