तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"देवताः प्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।
वमन्ति रुधिरं चास्यैः स्विद्यन्ते प्रपतन्ति वा"[१]॥
औशनसे ।
विहसन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
विक्रोशन्ति च गम्भीरं धूमायन्ते ज्वलन्ति च ॥
प्रतिमाः सर्वदेवानां कथयन्त्यो महद्भयम् ।
भागवते श्रीकृष्णोत्क्रान्तिनिमित्तानि वैकृतानि ।
"मांसशोणितगन्धीनि यत्र तत्र महद्भयम् ।
यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः ॥
तत्र द्वादशमासेषु राज्ञो मरणमादिशेत्"[२]
मत्स्यपुराणे त्रिपुरदाहनिमित्तम् ।
"अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तथा ।
निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मगाः" [३] ॥
औशनसे तु ।
चित्राणि यत्र लिङ्गानि तथैवायतनानि च ।
विकारं चक्रुरत्यर्थं तत्र विन्द्यान्महद्भयम् ॥
वृद्धगर्गसंहिताबार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।
पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ।
पराशरश्च ।
तत्र पितामहर्षिधर्मान् ब्राह्मणानाम् ।
वराहसंहितायाम् ।
ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।
ओशनसे तु ।
पितामहे तु यच्च स्यात् सोमे धर्मे ऋषिष्वपि ।