पृष्ठम्:अद्भुतसागरः.djvu/४४३

पुटमेतत् सुपुष्टितम्
४३२
अद्भुतसागरे ।

प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शान्तिमुपैति पापम् ॥

वराहसंहितायां च ।

 बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः ।
 स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाः ॥
 मधुपर्केण पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत् ।
 स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः ॥
 इति विबुधविकारे शान्तयः सप्तरात्रं
  द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च ।
 विधिवदवनिपालैर्यैः प्रयुक्ता न तेषां
  भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥

बार्हस्पत्यवृद्धगर्गयोः ।

 देवतार्चाविकारेषु शुचिर्विद्वान् पुरोहितः ।
 त्रिरात्रोपोषितो भूत्वा नवशुक्लावरः शुचिः ॥
 देवतां स्नाप्य चाच्छाद्य गन्धमाल्यैर्विभूषयेत् ।
 मधुपर्केण विधिवदुपतिष्ठेत् समन्ततः ॥
 धूपदीपैः सनैवेद्यैस्तिललाजाक्षतैस्तथा ।
 भक्ष्यैर्भोज्यैश्च पेयैश्च मन्त्रवद्वलिभिस्तथा ॥
 गोदानं भूमिदानं च गीतनृत्योत्सवक्रिया ।
 रौद्री चात्रैव होतव्या सर्वाद्भुतविनाशिनी ॥
 नृपश्च गुरवे दद्यादिष्टां भूमिं सदक्षिणाम् ।

आथर्वणाद्भुते ।
 अथ यत्र देवता बहुविधा हासादिवेषाः कुर्युस्तत्रान्यराजागमनोदकवज्ररोगानावृष्टिशस्त्रकृन्मारजनपदाभ्युत्थानानि राजविनाशश्चेति । तत्र चतुष्पथे रुद्रं संपूज्योपक्रमेत् ।