पृष्ठम्:अद्भुतसागरः.djvu/४४४

पुटमेतत् सुपुष्टितम्
४३३
देवप्रतिमाद्भुतावर्त्तः ।

 'ईशानं प्रपद्ये । भूः प्रपद्ये । स्वः प्रपद्ये । महः प्रपद्ये । जनः प्रपद्ये वेदिदेशं प्रपद्ये' इति । अतो गवामष्टशतस्य क्षीरेण पायसं श्रपयित्वा रौद्रेशान्तां सर्पिः पायसं च जुहुयादुपतिष्ठेत् संस्नाप्य शुक्लाः सुमनसो निवेद्य 'भव सर्वासां देवतानाम्' इति पुनरुपस्थापयेत् । तत्र गच्छेत् ततस्तस्यां सर्वाः शान्त्युदकेन स्नापयित्वा संपातकृते 'नमस्ते गन्धः'-इति तिसृभिरनुलिप्य 'नतं पक्ष्म ऐन्द्रदेवाः'-इति गुग्गुलुकुष्टधूपं दद्यात् । एवं स्वपुरदारामात्याय राज्ञे जनपदेभ्यो मन्त्रवर्जं ब्राह्मणान् भोजयित्वा एभ्य एव गाः प्रदद्यात् । मयूरचित्रे तु ।

 प्रतिमा शिवलिङ्गं च स्विद्यते यदि वाऽपि हि ।
 दुर्भिक्षं शस्त्रसंपातो मरकं च तदा भवेत् ॥
 दधिमधुघृताक्तानां समिधामयुतं पुनः ।
 औदुम्बरीणां जुहुयादेकरात्रोषितः शुचिः ॥
 वृषं दद्यादियं चापि शान्तिः कार्या विपश्चिता ।
 वाप्यादीनां पयोवृद्धौ चूडाशाखाप्रभेदने ॥
 यद्वा लिङ्गस्य संस्वेदे विश्वतश्चक्षुरित्यथ ।
 अर्कहोमो विधातव्यः शान्तिरन्याऽथ वोच्यते ॥
 अहानि स्नापयेत् सप्त दध्ना क्षीरेण सर्पिषा ।
 कारयेद्भूमिदोहं च नटप्रेक्षणकं तथा ॥
 होतव्यं लक्षमेकं तु समिधं श्रीफलानि च ।
 इमा रुद्रेति मन्त्रेण द्विजा भोज्याः सदक्षिणाः ॥

तत्रैव ।

 कम्पे हास्ये तथा नृत्ये रुदिते गीत एव च ।
 निमेषोन्मेषणे याने देवमातृगणस्य च ॥