सुराष्ट्रभेदं कुरुते फलपुष्पमनार्त्तवम् ।
औशनसे तु ।
अनृतौ चेत् फलं पुष्पं यत्र वा म्रियते द्रुमः ।
विन्द्याद्द्वादशमे मासि राज्ञस्तत्र विपर्ययम् ॥
द्रुप्त इत्येकवचनं चैत्यद्रुमपरम् ।
यत औशनस एवोक्तम् ।
अकाले पुष्पवन्तश्च फलवन्तश्च पादपाः ।
दृश्यन्ते यस्य राष्ट्रे तु तस्य नाशो विभाव्यते ॥
वृक्षा बालाश्च तरुणा यत्र स्युः फलपुष्पदाः ।
अकाले चापि दृश्येरंस्तत्र विन्द्यान्महद्भयम् -इति
हरिवंशाग्निपुराणमत्स्यपुराणपद्मपुराणेषु च हिरण्यकशिपुवधनिमित्तम् ।
"अकालेषु द्रुमाः सर्वे पुष्पन्ति च फलन्ति च ।
लताश्च सफलाः सर्वाः प्राहुर्दैत्यविनाशनम्[१] ॥
वृद्धाः प्राहुरिति सम्बन्धः । दैत्यनाशिका इति क्वचित् पाठः । क्वचित् तु नाशनमिति।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"अनार्त्तवं फलं पुष्पं दर्शयन्ति वनद्रुमाः"[२]।
अनृतौ फलपुष्पविहीनत्वाद्दोषावहं भवति ।
तथा चारण्यकाण्डे स्वरवधनिमित्तम् ।
“फलपुष्पविहीनाश्च तरवो न चकाशिरे[३] ।
तात्कालिकसकलपुष्पत्यागपरं चैतत् ।
बार्हस्पत्य संतमत्स्यपुराणविष्णुधर्मोत्तरेषु ।
बालानां मरणं कुर्याद्बालानां फलपुष्पता ।
- ↑ "हरिवंशे भविष्यपर्वणि ४६ अ, १७ श्लो. तत्र 'सर्वा याः प्राहुर्दैत्यनाशनम्' इति । मत्स्यपुराणे १६३ अ. ४४ श्लो, । तत्र ये चाहुर्दैत्यनाशनम्' इति । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३५-१३६ श्लो. । तत्र 'या आहुर्दैत्यनाशिकाः'-इति ।
- ↑ ३ अ. १लो. ।
- ↑ "वाल्मीकीये उक्तकाण्डे २३ सर्गे 'तस्मिन् क्षणे
बभूवुश्च विना पुष्पफलैर्द्रमाः'-इति १४ श्लो. ।