यदा तु पूजितवृक्षजातान्यद्भुतानि भवन्ति तदा नृपपीडाकराणि भवन्ति ।
तथा वृक्षाद्भुतशेषे मत्स्यपुराणविष्णुधर्मेत्तरयोः ।
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ।
पुष्पे फले वा विकृते राज्ञो मृत्युं तथाऽऽदिशेत् ॥
औशनसे तु ।
यत्र स्रवेच्चैत्यवृक्षः सहसा विविधान् रसान् ।
पृथक् पृथक् समस्तान् वा तस्य वक्ष्यामि लक्षणम् ॥
घृते मधुनि दुग्धं च स्नेहे चैव तथाऽम्भसि ।
क्षौद्रे दधिनि पूये वा व्याधयः स्युः सुदारुणाः ॥
सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ।
पराशरः ।
पूज्यपादपानां पतनमवनिपतिविनाशाय ।
हरिवंशे तु बाणपराजयनिमित्तम् ।
"अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम्"[१] ॥
स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।
पादपाश्च विना वातं पतन्त्युन्मूलिता भुवि ।
बार्हस्पत्ये ।
पूजितानां फले धूमो राज्ञो मृत्युं समादिशेत् ।
वृद्धगर्गस्तु ।
यदि वा पूजिताश्चेत्या धूमायन्ति दिवानिशम् ।
विकृतान्यर्त्तुपुष्पा वा राज्ञो मृत्युभयं भवेत् ॥
वराहसंहितायां तु ।
पूजितवृक्षेष्वनृतौ कुसुमफलं नृपभयाय निर्दिष्टम् ।
धूमस्तस्मिन् ज्वालाऽथ वा भवेन्नृपवधायैव ॥
- ↑ ११६ अ. ६७ श्लो. ।