पराशरः ।
यद्युत्पलकुमुदपुष्पसम्भवे यवव्रीहिष्वेककाण्डे द्वित्रिरन्तःशिरः प्रादुर्भावे तत्स्वामिनाशं विन्द्यात् ।
वराहसंहितायाम् ।
नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् ।
कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥
अतिवृद्धिः शस्यानां नानाफलकुसुमसम्भवो वृक्षे ।
भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥
अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् ।
अन्नस्य च वैरस्यं तदा च विन्द्याद्भयं सुमहत् ॥
विकृतकुसुमं फलं वा ग्रामादथ वा पुराद्बहिः कार्यम् ।
सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥ .
शस्ये च दृष्ट्वा विकृतं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः ।
तत्क्षेत्रमध्ये चरुमत्र भौमं कृत्वा न दोषं समुपैति तज्जम् ॥
बार्हस्पत्यवृद्धगर्गसंहितयोस्तु ।
यमकं जायते पुष्पं फलं वा यमकं यदि ।
कुमुदोत्पलपद्मानि एकनाले बहूनि तु ॥
बीजं यत्र प्ररोहेत् तु फलमध्ये प्रमादतः ।
एतदप्यद्भुतं नाम दम्पत्योस्तु विनाशनम् ॥
बहुशीर्षा द्विशीर्षा वा तथा निष्प्रसवा अपि ।
यवा वा व्रीहयो वाऽपि स्वामिनो मरणाय ते ॥
अन्यर्त्तुफलपुष्पैर्वा न फलन्ति फलन्ति वा ।
पोदपौषधिगुल्माश्च जनमारभयं भवेत् ॥
अथ वाऽतिशयं धान्यं भद्रमप्तं विनश्यति ।