लाभम् । अङ्गुष्ठाङ्गुलिमूले व्याधिभयम् । चूलायां वैमनस्यम् । ग्रीवायां शिरश्छेदनम् । मूलादर्थयानपर्याप्तिम् [१]। कर्णिकासकलभक्षणे सन्धिच्छेदनम्।असकलेकलहोऽसत्प्रवृत्तिं च । पार्ष्णिबन्धेऽध्वगमनम्। पार्ष्णिस्थाने वाहनागमम् । बाह्यपदपुटच्छेदने भक्षणे तु सुहृद्भातृविनाशं विन्द्यात् । मध्यमस्य विपुलमर्थागमनम्। उत्तमस्य भूलाभम् । पदमध्ये शोकागमनम्। पार्श्वयोः पार्श्वरोगः । सकलोपानद्भक्षणे मरणविभ्रमप्रवासा भवन्ति ।
अपि च ।
न वासः फलसामग्र्यमर्धभक्तासु मध्यमम् ।
शुभाशुभं विनिर्देश्यं जीर्णासु न भवेत् फलम्[२]॥
वराहसंहितायां तु ।
वस्त्रस्य कोणेषु वसन्ति देवा नरास्तु पाशान्तदशान्तमध्ये ।
शेषास्त्रयश्चात्र निशाचराणां तथैव शय्यासनपादुकासु ॥
लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् ।
पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकसुत्तरीये ॥
रुग्राक्षसांशेष्वथ वाऽपि मृत्युः पुंजन्म तेजश्च मनुष्यभागे ।
भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥
कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः ।
- ↑ 'स्थानवन्धेऽन्नपानप्राप्तिम्' इति अ ।
- ↑ तथा च गर्गः ।
वस्त्रमुत्तरलोमं तु प्राग्देशं नवधा भजेत् ।
त्रिधा दशान्तपाशान्ते त्रिधा मध्यं पृथक् पृथक् ॥
चतुर्षु कोणेषु सुराः पाशान्ते मध्यमे नराः ।
दशान्ते च नरा भूयो मध्यभागे निशाचराः ॥
राक्षसान् विनिवृत्त्यैवं शय्यादिष्वप्ययं विधिः ।
इति अ, पुस्तकेऽधिक उपलभ्यते ।
नवधा विभक्तवस्त्राकारः ।
देवाः । राक्षसाः । देवाः
नराः । राक्षसाः । नराः
देवाः । राक्षसाः । देवाः ॥